देवीमाहात्म्यम्
(Listen to the content of this write up HERE)
मार्कण्डेयपुराणान्तर्गतं सप्तशतश्लोकसमन्वितं देव्याः महामायायाः चरितमेव देवीमाहात्म्यम् इति नाम्ना सुप्रसिद्धम्। अत्र त्रयोदश अध्यायाः सन्ति। एषु त्रयोदशाध्यायेषु सप्तशतं श्लोकाः सन्ति इति हेतोः एतत् सप्तशतीति नाम्नापि अभिधीयते। केचन केवलं चण्डीति कथयन्ति। अस्मिन् देवीमाहात्म्ये भगवतः विष्णोः शक्तिस्वरूपिण्याः देव्याः महामायायाः भिन्नभिन्नस्वरूपाणि वर्णितानि सन्ति। देव्याः महामायायाः माहात्म्यमिदं मार्कण्डेयऋषिणा स्वशिष्याय क्रोष्टुकिने वर्णितं अस्ति।
अस्मिन् देवीमाहात्म्ये चरितत्रयस्य वर्णनं वर्तते। एषु त्रिषु चरितेषु महाकाली, महालक्ष्मीः, महासरस्वतीति देव्याः स्वरूपत्रयं वर्णितमस्ति।
प्रथमचरिते एव कथायाः प्रारम्भः भवति। सुरथो नाम भूपतिः स्वपुरे दुरात्मभिः स्वमन्त्रिभिः पराभूतः, हृतस्वाम्यः गहनं वनं गच्छ्हति। तस्मिन् वने स ऋषेर्मेधसः आश्रमं प्राप्य तत्र कञ्चित् कालं तिष्टति। तदानीं स मुनेराश्रमसमीपे समाधिनामकं वैश्यं पश्यति। स वैश्योऽपि धनलोभिभिः स्वपुत्रदारैर्निरस्तः वने अत्र तत्र भ्रमन् तमाश्रममागतोऽस्ति। ततः नृपः सुरथः वैश्यः समाधिश्च परस्परेण सह स्वस्वदौर्भाग्यविषयं चर्चयित्वा एतस्माद्दुःखान्मुक्तेरुपायं ज्ञातुं ऋषेर्मेधसः समीपं गच्छ्हतः। ऋषिर्मेधा उभयोर्वृत्तान्तं श्रुत्वा सर्वेषां दुःखानां मूलभूतं कारणं तथा तेभ्यः मुक्तेरुपायं च वर्णयति।
अज्ञानमेव कारणं सर्वेषां दुःखानाम्। पुनश्च अज्ञानस्येतस्य सृष्टिकर्त्री महामाया एव। एषा महामाया भगवतः विष्णोः शक्तिस्वरूपिणी। अनया एव सृष्टेः सर्वविधाः लीलाः सम्भवन्ति। राज्ञा सुरथेन प्रार्थितः ऋषिर्मेधा सविस्तरं एतस्याः महामायायाः नानाविधचरितानि वर्णयन् यत् सर्वं कथयति तदेव देवीमाहात्म्यस्य विषयवस्तु।
कल्पान्ते यदा भगवान् विष्णुः योगनिद्रायां मग्नः आसीत् तदा तस्य कर्णमलोद्भूतौ मधुकैटभनामकौ द्वौ भयङ्करावसुरौ भगवतः विष्णोः नाभिकमलस्थितं ब्रह्माणं हन्तुमुद्यतौ अभवताम्। तावुग्रावसुरौ दृष्ट्वा प्रजापतिर्ब्रह्मा प्रसुप्तं जनार्दनं जागरयितुमभिलषन् हरिनेत्रकृतालयां योगनिद्रास्वरूपिणीं महामायाम् एकाग्रहृदयेन स्तोतुमारभत —
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥
ब्रह्मणः स्तुतौ सन्तुष्टा महामाया योगनिद्रा भगवन्तं विष्णुं निद्रामुक्तमकरोत्। ततः भगवान् विष्णुः नानाशस्त्रास्त्रप्रहरणैः पञ्चसहस्रवर्षाणि यावत् मधुकैटभाभ्यां सह युद्धं कुर्वन् अन्ते तौ महामायाविमोहितौ कृत्वा अमारयत्। एषा एव मधुकैटभनाशिनी महामाया योगनिद्रा महाकालीरूपेण स्तुता। एषा एव भगवतः विष्णोः तामसी शक्तिः। अत्रैव देवीमाहात्म्यस्य प्रथमं चरितं समाप्तिमेति।
द्वितीयचरिते अथवा मध्यमचरिते महामायायाः महालक्ष्मीस्वरूपमेव वर्णितम्। पुरा महिषासुरनामक असुराधिपः स्वजनन्याः तपोबलेन बलीयान् स्वपराक्रमैः देवान् पराजित्य स्वर्गमधिकृतवान्। तस्मात् पराजिताः देवाःह् प्रजापतिं ब्रह्माणं पुरस्कृत्य एकस्थानस्थितयोः विष्णुमहेश्वरयोः समीपमगच्छ्हन्। तयोः पुरतः महिषासुरेण तेषां पराभवविषयमवर्णयन् च। देवानां मुखात् महिषासुरस्य अत्याचारविषयं श्रुत्वा भगवान् विष्णुः अतिकोपपूर्णः सञ्जातः। ततः सर्वेषां देवानां शरीरतः सुमहत्तेजः निर्गत्य ऐक्यं समगच्छ्हत। तत् सर्वदेवशरीरजमेकस्थं तेजः त्रिभुवनप्रकाशशालि नारीरूपमभवत्। सा तेजोमयी नारिमूर्तिः देवी सर्वैः देवैः नानाशस्त्रास्त्रालङ्कृता सञ्जाता। एषा एव देवी भयङ्करनिनादेन त्रिभुवनं प्रकम्पयित्वा शूलप्रहारेण महिषासुरस्य शिरश्च्छ्हिन्नमकरोत्। अनेन तुष्टिमापन्नाः देवाः तां स्तोतुमारभत।
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः॥या श्रीः स्वयं सुकृतीनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम्॥दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता॥
इत्थं संस्तुता एषा महिषासुरमर्दिनी एव महालक्ष्मीः, भगवतः विष्णोः राजसी शक्तिः। अत्रैव मध्यमचरितं समाप्यते।
तृतीयचरिते अथवा उत्तमचरिते शुम्भनिशुम्भविनाशिन्याः महासरस्वत्याः चरितमेव वर्णितम्। सुन्दोपसुन्दसुतयोः शुम्भनिशुम्भयोः अत्याचारेण प्रपीडिताः देवाः हिमालयं गत्वा पार्वतीरूपिणीं देवीं विष्णुमायां स्तुतवन्तः।
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
एवं देवैः संस्तुता पार्वती तेषां पुरतः आत्मानं प्राकटयत्। तदानीं पार्वत्याः शरीरात् सुमनोहरं रूपं बिभ्राणा, स्वप्रभया सर्वाः दिशः द्योतयन्ती काचित् चार्वङ्गी समुद्भूता। तस्याः निरुपमं रूपयौवनं दृष्ट्वा तत्र देवानां मध्ये समुपस्थितौ चण्डमुण्डनामकौ शुम्भनिशुम्भयोः भृत्यौ चकितौ अभवताम्। ततः ताभ्यां भृत्याभ्यां स्त्रीरत्नमेतां पत्नीत्वेन स्वीकर्तुं महासुरः शुम्भः प्रार्थितः। चण्डमुण्डयोः वचः श्रुत्वा शुम्भः देव्याः समीपं सुग्रीवनामकं दूतं समप्रेषयत्। दूतमुखात् शुम्भस्याभिप्रायं विज्ञाय देवी तं दूतमवोचत्
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति॥
तदागच्छ्हतु शुम्भोऽत्र निशुम्भो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु॥
देव्याः अभिप्रायमिमं सुग्रीवमुखात् परिज्ञाय सक्रोधः शुम्भः देव्या सह युद्धं कर्तुं दैत्याधिपं धूम्रलोचनं प्रेषितवान्। ततः चण्डमुण्डौ प्रेषितौ। ततश्च रक्तबीजः। ततः निशुम्भः। परन्तु एते सर्वे देव्या निहताः। अन्ते शुम्भः स्वभ्रातृवधेन अतिकोपान्वितः देव्या सह योद्धुं स्वयमगच्छ्हत्। ततः देवीशुम्भयोर्मध्ये दारुणं युद्धं प्रवृत्तम्। युद्धेऽस्मिन् यदा शुम्भोऽयं देव्या विनिपातितः तदा हर्षनिर्भरमानसाः देवाः गन्धर्वाश्च देव्याः स्तुतिं कुर्वन्तः ललितमगायन्।
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवी चराचरस्य॥
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकलाः जगत्सु
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरापरोक्तिः॥
सर्वबाधाप्रशमनार्थं प्रार्थिता सा देवी प्रसन्ना देवान् प्रतिज्ञातवती यत् यदा यदा देवकार्येषु दानवोत्था बाधा समुत्पत्स्यते तदा तदा अवतीर्य सा अरिनाशं करिष्यति। एतदेव महासरस्वत्याः माहात्म्यम्। एषा शुम्भनिशुम्भविमर्दिनी सरस्वत्येव भगवतः विष्णोः सत्त्विकी शक्तिः।
ऋषेर्मेधसः मुखात् देव्याः एतन्माहात्म्यं श्रुत्वा, देव्याः कृपाबलेन न किञ्चिदसम्भवमिति मनसि निधाय राजा सुरथः वैश्यः समाधिश्च देव्या आराधनार्थं तपश्चरणे रतौ अभवताम्। तयोः तपश्चरणे परितुष्टा देवी ताभ्यां प्रार्थितं सर्वं प्रादात्। तेन सुरथः स्वहृतराज्यमलभत। समाधिश्च स्वप्रार्थनानुरूपं ममेत्यहमिति सङ्गविच्युतिकारकं ज्ञानं प्राप्नोत्।
संक्षेपेण एतदेव देवीमाहात्म्यस्य कथावस्तु। एतस्य भक्तिपूर्वकपठनेन श्रवणेन वा सर्वमभिलषितं सिध्यति।
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले।
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते॥