भवानी भारती — श्री अरविन्दविरचितं राष्ट्रभक्तिपरकं संस्कृतकाव्यम्

विंशशताब्देः प्रारम्भिकः कालः ईदृशः आसीत् यदा राष्ट्रशक्तिविषये, मातृभूमेः महत्त्वविषये उद्बोधनम् राष्ट्रहितसम्पादनाय एकत्वसूत्रनिबद्धाः भूत्वा अग्रे सरणम् एतदर्थं भारतवासीनां पूर्णजागरणम् च नितान्तम् अपरिहार्यम् आसीत्। स एव समयः आसीत् यदा अनेके देशभक्ताः स्वाधीनतासङ्ग्रामकारिणः कवयः स्व-स्वसृजनीशक्तिमवलम्ब्य साहित्यरचनाद्वारा देशवासिनां जागरणाय प्रयतन्ते स्म। तेषाम् एकमेव लक्ष्यम् आसीत् राष्ट्रशक्तेः अभ्युदयः, भारतमातुः रक्षार्थम् सर्वेषाम् एकत्वसूत्रनिबन्धनम्। एतेषु सर्वेषु स्वदेशानुरागिषु एकतमः आसीत् भारतमातुः प्रियपुत्रः पूर्णयोगप्रवर्तकः श्री अरविन्दः।

द्विसप्तत्यधिक अष्टादशशततमे वर्षे अगस्ट् मासस्य पञ्चदशदिनाङ्के लब्धजन्मा श्री अरविन्दः भारतमातुः स्वाधीनतासङ्ग्रामे स्वल्पकालं योगदानं कृत्वापि स्वप्रतिभया भारतीयजनमानसेषु प्रगाढदेशप्रीतिं जागरयितुं पूर्णतया समर्थः आसीत्। सर्वप्रथमतया वन्दे मातरम् इति पत्रिकामाध्यमेन श्री अरविन्दः राष्ट्रशक्तेः अभ्युदयाअय स्वलेखनीप्रयोगम् अकरोत्। नानाविधवैप्लविकभावनापरिपूर्ण- लेखाभिः परिपुष्टा आसीद् इयं पत्रिका। राष्ट्रशक्तेः अभ्युदयनिमित्तं भारतीयानां जागरणाय च इयम् पत्रिका आसीद् अमोघास्त्रस्वरूपा।

राष्ट्रशक्तेः अभ्युदय आसीत् श्री अरविन्दस्य एकमेव लक्ष्यम् । तस्यैव लक्षसाधनाय तस्मिन् समये भवानीमन्दिरम् इति नाम्ना कस्याश्चित् अभिनवयोजनायाः परिकल्पना कृता आसीत् श्री अरविन्देन। मातृभूमेः सुरक्षार्थम् प्रत्येकं भारतीयः स्वहृदये मातृशक्तेः आवाहनं करोतु इति अस्याः योजनायाः केन्द्रीयः अभिप्रायः आसीत्। ‘मातृशक्तेः उपासनाद्वारा राष्ट्रशक्तेः उत्थानम् आसीत् भवानीमन्दिरम् इति योजनायाः मूलमन्त्रः। अस्मिन्नेव समये कदाचित् श्री अरविन्दस्य हृदये स्वानुभूतिपरिणामस्वरूपं किमपि अद्भुतं काव्यम् अजायत। गीर्वाणवाणीसमुपासकस्य श्री अरविन्दस्य एषः प्रत्ययः आसीत् यत् सरलसंस्कृतम् एव भारतवर्षस्य आत्मीयभाषा। अतः भारतीयजनमानसेषु स्वाअनुभूतिं प्रापयितुं सः सरलसंकृतम् एव आश्रित्य तस्य हृदये जातस्य काव्यस्य रूपायनम् अकरोत्। किन्तु दुर्भाग्यवशतः अष्टाधिक ऊनविंशतिशततमे वर्षे काव्यमिदम् रक्षिपुरुषाणां हस्तगतम् अभूत्। ततः परं पञ्चाशीत्यधिक ऊनविंशतिशततमे वर्षे श्री अरविन्दाश्रमेण शीर्षकरहितस्य एतस्य काव्यस्य उद्धरणम् कृत्वा ‘भवानी भारती’ इति शीर्षकेण प्रकशनं विहितम्।

उपजाति-इन्द्रवज्रा-उपेन्द्रवज्रादिभिः छन्दोभिः निबद्धम् एकोनशतश्लोकोपेतम् काव्यमिदम् देशभक्तिभावनापरिपूर्णम्। अस्य काव्यस्य अध्ययनात् प्रतीयते यत् काव्यमिदम् सर्वेषां भारतीयानां प्रतिनिधिभूतस्य कवेः अन्तर्द्वन्द्वसम्भूतम् इति। काव्यस्य प्रारम्भे एव एतत् सूचितम्। एकस्मिन् पक्षे कविः सुखसौभाग्यपरिपूर्णं जीवनम् उपभुङ्क्ते। तस्य मनसि उद्भासन्ते नवविवाहितजीवनस्य वासन्ती वीथी, कुटुम्बजनाः, काव्यम् पत्नी, संसारसुखभोगः इत्यादयः। अपरतः दुष्टासुरैः प्रपीडितायाः स्वजन्मभूमेः भारतमातुः करुणः अर्तनादः तं भृशं व्यथयति। एकः मार्गः भौतिकः सुखस्वाछन्द्यपरिपूर्णः। अपरः मार्गः भारतमातुः कृते आत्मोत्सर्गस्य मार्गः। द्वन्द्वे’स्मिन् कविः सुखश्य्यायां निद्रामग्नः, सुखवैभवादिचितानिमग्नः। तदानीं हठात् कविः निजमध्यतः किमपि आह्वानं शृणोति। निद्रितावस्थायां स पश्यति भारतमाता स्वयं तस्य सम्मुखे कालीरूपेण आविर्भूता। ग्रीवायां नरास्थिमाला, कटौ नृमुण्डमेखला, तस्याः पृष्ठे असुराणां कशाघातजनितक्षतविक्षतचिह्नानि, सा क्षुधिता, दरिद्रा, क्रूरा, नग्ना, अन्धकारमयी, आलोलितकेशा, करालदंष्ट्रा, भयङ्करी जननी घोरशब्दैः विश्वम् आपूर्य पुनः पुनः करालहनुयुगलस्य लेहनं कृत्वा गर्जति स्म।

नरास्थिमालां नृकपालकाञ्चीं वृकोदराक्षीं क्षुधितां दरिद्राम्।
पृष्ठे व्रणाङ्काम् असुरप्रतोदैः सिंहीं नदन्तीमिव हन्तुकामाम्॥
क्रूरैः क्षुधार्तैर्नयनैर्ज्वलद्भिर्विद्योतयन्तीं भुवनानि विश्वा।
हुङ्काररूपेण कटुस्वरेण विदारयन्तीं हृदयं सुराणाम्॥
आपूर्य विश्वं पशुवद्विरावैर्लेलिह्यमानाञ्च हनू कराले।
क्रुराञ्च नग्नां तमसीव चक्षुर्हिंस्रस्य जन्तोर्जननीं ददर्श॥

तस्या एव भयङ्करजनन्याः भीमहस्तस्पर्शेण भयव्याकुलमनाः कविः तल्पाद् उत्थाय ताम् आराध्यां तमोमूर्तिम् अपृच्छत् — हे करालि का त्वं रात्रौ मम हृदये विभासि? हे भीमे नमस्तुभ्यम् वद किं करवाणि ते? तदानीं सा भयङ्करमूर्तिधारिणी जननी क्रूरसिंहस्य गर्जनम् इव, शिलायां सङ्घट्टमानसमुद्रस्य स्तनितम् इव गर्जन्ती प्रत्यभाषत -

मातास्मि भोः पुत्रक भारतानां सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान् पुत्र विधिर्विपक्षः कालोऽपि नो नाशयितुं यमो वा ॥

हे पुत्र !अहं तेषां देवप्रियसनातनभारतसुतानां जननी अस्मि यान् प्रतिकूलभाग्यं कालः यमः वा नाशयितुं नैव समर्थः। पुरा भारतवर्षस्य अस्याम् समृद्धिशालिधरित्र्याम् ब्रह्मचर्येण, ज्ञानेन, उग्रतपोभिश्च विशुद्धवीर्याः सहस्रसूर्य इव भासुराः ऋषयः अशोभन्त। तदानीं भारतवर्षमिदम् तैरेव वीरैः साहसिभिः देदीप्यमानम् आसीत् ये शत्रूणाम् ईषदपि युद्धाह्वानं सोढुम् अशक्ताः आसन्। ये च अविलम्बम् एव शत्रून् नाशयित्वा तेषां रक्तेन भारतमातुः चरणारविन्दं प्रक्षालयन्ति स्म। किन्तु अद्य तादृशाः वीराः, तादृशाः साहसिनः न सन्ति। सम्प्रति आत्मानं वीरान् मन्यमानाः हीनवीर्याः प्रतिपलं मातृभूमेः शोषणे रताः। एतान् हीनवीर्यान् कापुरुषान् अभिलक्ष्य स्वक्षोभं प्रकटयन्ती सा माता कथयति

दीनाः क एते घृणिनो दरिद्राः शान्तिं जघन्यां गणिकामिवान्धाः।
भजन्ति भोः कापुरुषा विमूढा आलिङ्ग्य ये मोदथ मॄत्युमेव॥

ये चात्र ब्राह्मणाः, क्षत्रियाः वैश्याः शूद्राः सन्ति ते सर्वे केवलं म्लेच्छसेवायां रताः। स्व स्व कर्तव्यं विस्मृत्य मातृभूमेः अवहेलनं कुर्वतः एतान् सर्वान् मातृद्रोहिणः इति सम्बोधनं कृत्वा मातृभूमेः सेवायाम् आत्मानं नियोजयितुम् आह्वानं ददाति सा। समस्तभेदभावं विस्मृत्य तस्याः पूजार्थं, तस्याः रक्षार्थं सर्वान् आह्वयति सा।

भो भो अवन्त्यो मगधाश्च बङ्गाः अङ्गाः कलिङ्गाः कुरुसिन्धवश्च।
भो दाक्षिणात्याः शृणुतान्ध्रचोला वसन्ति ये पञ्चनदेषु शूराः॥
ये के त्रिमूर्तिं भजथैकमीशं ये चैकमूर्तिं यवना मदीयाः।
माताह्वये वस्तनयान् हि सर्वान् निद्रां विमुञ्चध्वमये शृणुध्वम्॥

शतशः, सहस्रशः, अयुतशः वा छागाः बलीक्रियन्ते चेत् तेषां रक्तप्रवाहैः सा माता न तृप्ता। स्वहृदयानि विदार्य रक्तम् प्रदातव्यम्। इत्थमेव शाश्वतभयङ्करजनन्याः पूजा भवति। अन्ते सा माता कविम् उद्दिश्य कथयति हे कवे हे विलासिन् हे पुत्र भारतानां शाश्वतवंशधरान् आह्वय। अलं भयेन तव विजयः सुनिश्चितः। उत्तिष्ठत, अस्मिन् रक्तसिन्धौ आत्मनिमज्जनं कुरुत। उत्तिष्ठतोतिष्ठत सुप्तसिंहाः।

रात्रौ इमानि वाक्यानि श्रुत्वा अन्धकारे तां भयङ्करीम् कालीं विलोक्य च कवेः चित्तं अनृत्यत्। स अविलम्बं गृहं त्यक्त्वा भोगान् वर्जयित्वा च बहिरागतः।

इमानि वाक्यानि निशम्य रात्रौ तेजश्च भीमं तिमिरे विलोक्य।
चित्तं ननर्ताशु विहाय सद्म भोगान् विनिर्धूय च निर्जगाम॥

बहिर्निर्गत्य कविः घनान्धकारेणावगुण्ठितं पीडितम् अन्धम् प्रसिद्धम् अर्यखण्डं भारतं पश्यति। तत्र शत्रुभिः धर्षिता भारतानां माता रात्रौ प्रच्छन्ना भृशं क्रन्दति। तदा तस्य नेत्रपथम् आगच्छति कश्चित् मुकुटधारी असुरराजः यः मातुः अश्रुमिश्रितं रक्तं निःशेषं गृहीत्वा तेन स्वसन्तानवृन्दं पोषयति। सः सर्वत्र उग्रं करवालं भ्रामयित्वा सर्वान् भाययति, पीडयति। तं दुराचारम् असुरं दृष्ट्वा कवेः चित्तम् अग्निकुण्डम् इव भवति अनन्तक्रोधेन च प्रज्वलति। तदा सुप्तान् शाश्वतवंशधरान् जागरयितुं भयङ्करी कालीरूपिणी भारतमाता क्रूरशब्दं कुर्वती तं भयङ्करं शत्रुं प्रति धावति। ततः परं तयोर्मध्ये घोरं युद्धं प्रवर्तते। तदा कविः अन्धकारविनाशिनं अरुणाभम् उत्क्षिप्तकिरणवर्षिणम् उदयन्तं सूर्यं पश्यति यः स्वबाणतुल्यकिरणैः तं मातृपीडनकरिणं दानवं विनाशयति। अपरतः दूरात् द्विकोटिभास्वरसूर्यप्रभम् शत्रुनाशि सौम्यम् शुभ्रम् मनोहरं ज्योतिः नारीरूपेण अविर्भवति। तस्याः अवतरणेन पृथिवी आधिव्याधिदुःखतापमुक्ता भवति। आनन्दिताः स्वर्लोकवासिदेवाः, मानवाः च तां साष्टाङ्गं प्रणम्य तस्याः स्तुतिम् कुर्वन्ति। सङ्क्षेपेण एतदेव भवानी भारती इति काव्यस्य कथावस्तु।

कलेवरेण काव्यमिदं लघु। तथापि अत्र मातृभूमेः यत् महत्त्वं वर्णितम् तस्याः सेवार्थं यत् आह्वानं वर्तते तत् सर्वं एतस्य विशेषत्वं प्रतिपादयति। श्री अरविन्दस्य मतेन भारतभूमिरियं न कश्चित् भूखण्डविशेषः, न वा भाषायाः अलङ्कारः, न वा मनसः कल्पना । सा खलु महाशक्तिः। यथा भवानी महिषामर्दिनी बलपुञ्जरूपेण संहतानां ऐक्यग्रथितानां कोटिशः देवानां शक्तेः आविर्भुता तथैव राष्ट्रस्य अङ्गभूतानां कोटिशः प्रजानाम् समवायेन सा निर्मिता। यां वयं भारतवर्षं भवानिभारतीं वा कथयामः सा हि कोटिशः प्रजानां शक्तेः जीवत्समवायः। तस्या एव मातुः स्तुतिं कुर्वन् श्री अरविन्द अस्मिन् काव्ये लिखति

अनन्तशक्तृयुद्धिमशेषमूर्तिं को वक्ष्यतीमां तव सर्वशक्ते।
तेजस्त्वमेतद्बलिनां बलञ्च त्वम् कोमलानामपि कोमलासि।।

श्री अरविन्दस्य दृष्ट्या अस्माकं भारतजननी अनन्तशक्तेरधिकारिणी। सा एव शक्तिमाता। कदाचित् सा प्रेमरूपेण आविर्भवति। कदाचित् च ज्ञानरूपेण। कदाचित् त्यागरूपेण पुनः कदाचित् दयारूपेण। सा दुर्गा। सा काली। सा राधा। सा लक्ष्मी। सा अस्माकं सर्वेषां जननी। जगज्जननी सृष्टिकर्त्री सा एव अदिशक्तिः। तस्या दिव्यमातुः पदवन्दनं कृत्वा श्री अरविन्दः गायति

काली त्वमेवासि सुनिष्टुरासि त्वमन्नपूर्णा सदया च सौम्या।
नमामि रौद्रां भुवनान्तकर्त्रि प्रेमाकुलामेव नमामि राधे॥

अद्य भारतवर्षस्य यद्रूपम् अस्माकं सविधे अस्ति तत् श्रीअरविन्दस्य दृष्टेरनुरूपं न वर्तते तथापि श्री अरविन्देन भारतवर्षस्य यद्भाविरूपं दृष्टं तत् कदाचिद् अन्यथा न भविष्यति। श्री अरविन्दस्य दृष्ट्या सूर्यवंशे लब्धजन्मा आर्यपुङ्गवः पुनः धर्मस्य सनातनमार्गान् रक्षति। पुनः सा स्मितवदना समुज्ज्वला लक्ष्मीः भारते स्थिरतया वसति।वेदादिशास्त्रजननीम् इमां प्राचीनभूमिं वन्दितुं जगतः सर्वदेशेभ्यः जनाः सवेगम् आगच्छन्ति। पुनरपि श्री अरविन्दः पश्यति यत् भवान्याः चरणन्यासेन समग्रापि आर्यभूमिः पवित्रीभूय पृथिव्याः मुक्तिप्रदा काशी इव सञ्जाता। देव्यास्तु पुण्येन पदार्पणेन सर्वार्यभूमिः जगतोऽपि काशी।

काव्यस्यास्य अन्ते श्री अरविन्दः भारतमातरं स्तुवन् कवयति -

प्रीतिर्दया धैर्यमदम्यशौर्यं श्रद्धा तितिक्षा विविधाश्च विद्याः।
अनन्तरूपे त्वमसि प्रसीद चिरं वसार्ये हृदि भारतानां॥
सिन्धून् हिमाद्रिं च सुसौम्यभासा प्रकाशयन्ती सुदृढप्रतिष्ठा।
तिष्ठ प्रसन्ना चिरमार्यभूमौ महाप्रतापे जगतो हिताय॥

इयमेव अस्माकं भारतभूमिः न खलु मृत्तिकाखण्डम् अपि तु महशक्तिः देवी भवानी । प्रत्येकं भारतीयः यदि इमां शाश्वतजननीं हृदयारूढां कृत्वा समस्तभेदभावं विस्मृत्य समस्तसङ्कीर्णतां दूरीकृत्य तस्याः सेवार्थं अग्रेसरः भवति तर्हि पुनरेतद् भारतवर्षम् समृद्धं समुज्ज्वलं भविष्यति। इयमेव भविष्यति मातृशक्तेः सत्योपासना मातृभूमेः समुचितपूजा। इयमेव श्री अरविन्दविरचितभवानीभारतीकाव्यस्य चिरन्तनी वाणी। प्रतिपाद्यविषयदृष्ट्या काव्यरचनासौष्ठवदृष्ट्या श्री अरविन्दस्य एतदेकमेव संस्कृतकाव्यम् आधुनिकसंस्कृतसाहित्यजगति एकं महत्त्वपूर्णं काव्यम् इत्यत्र संशयः नास्ति।

--

--

Author, speaker and researcher on subjects related to Sanskrit, Indian Culture, Spirituality, Yoga and Education. SahityaAkademi and President of India Awardee.

Love podcasts or audiobooks? Learn on the go with our new app.

Get the Medium app

A button that says 'Download on the App Store', and if clicked it will lead you to the iOS App store
A button that says 'Get it on, Google Play', and if clicked it will lead you to the Google Play store