प्राचीनभारते नालिकास्त्रम् — Gunnery in Ancient India
(This is a research paper in Sanskrit on Gunnery in Ancient India. This was presented in one of the All India Oriental Conferences and published in a journal titled VijnanaJhari, volume1 (2011): pp66–70. Print.)
आयुधानि मुख्यतया अस्त्रत्वेन शस्त्रत्वेन चेति द्विधा विभज्यन्ते । किं नाम अस्त्रम् ? किं च पुनः शस्त्रम् ? “अस्यते क्षिप्यते इति अस्त्रम्” (अस् + ष्ट्रन् ) । शस्यते छिद्यते अनेन इति शस्त्रम् (शस् + ष्ट्रन् )। (1) महर्षिवसिष्ठप्रणीतधनुर्वेदसंहितायाम् आयुधानां चतुर्विधत्वं प्रतिपादितम् । यथा — चतुर्विधमायुधम् । मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तञ्चेति ।(2) चक्रादीनि मुक्तानि अस्त्राणि । खड्गादीनि अमुक्तानि । कुन्तादीनि मुक्तामुक्तानि । नालिकादीनि यन्त्रमुक्तानि । मन्मतेन आयुधानामेतत् चतुर्विधत्वं यदुक्तं तत्र यन्त्रमुक्तेति विभागं मुक्तान्तर्गतं कृत्वा आयुधानां त्रिविधत्वमेव स्वीकरणीयम् । मुक्तानाम् अस्त्राणां पाणिमुक्तम् यन्त्रमुक्तं चेति पुनः विभागद्वयं कर्तुं शक्यते । सूक्ष्मदृष्टया विचार्यते चेत् आयुधानि मुक्तानि अमुक्तानि चेति द्विधा एव भवितुमर्हन्ति । मुक्तानां अस्त्रमिति अभिधानम् । अमुक्तानां च शस्त्रमिति । यानि मुक्तामुक्तसंज्ञितानि तानि केवलं पाणिमुक्तानि इति स्वीकरणीयम् । पाणिमुक्तानि विहाय अस्त्राणि द्विधा एव भवन्ति यान्त्रिकाणि मान्त्रिकाणि चेति। (3) मन्त्रशक्तिद्वारा क्षिप्तानि अस्त्राणि मान्त्रिकाणि । ब्रह्मास्त्रं, वायवास्त्रम् इत्यादीनि मान्त्रिकाणि एव । नालिकमिति एकं यन्त्रमुक्तमस्त्रम् । ‘नालिक’ इत्यर्थे आङलभाषायां gun इति शब्दः प्रयुज्यते । प्राचीनभारते नालिकास्त्राणां निर्माणं, प्रयोगश्च कदा कुत्र चाभवदेतत् सम्यक्तया वक्तुं न शक्यते । नालिको नालीको वा इति शब्दस्य अस्त्रस्यार्थे प्रयोगः सर्वादौ वसिष्ठकृतधुनर्वेदसंहितायां दृश्यते । अस्मिन् ग्रन्थे वसिष्ठः प्रतिपादयति यत् अत्युच्चपातेषु दुर्गयुद्धेषु अस्य प्रयोगः भवति । अस्त्रमिदं आकारेण लघु भवति बाणतुल्यमपि भवति । एतत् नलयन्त्रेण एव नोद्यते । (4) बृहन्नालिकस्यार्थे अस्मिन् ग्रन्थे ‘शतघ्न’ शब्दस्य प्रयोगः दृश्यते । सिंहासनस्य रक्षार्थं गढे (दुर्गे) रञ्जकबहुलं (5) शतघ्नं स्थापनीयम् (6)। नालिकास्त्रेण यद् युद्धं क्रियते तद् धनुर्युद्धान्तर्गतं भवति । (7) एवं वसिष्ठकृतधनुर्वेदसंहितायां नालिकास्त्रविषयकं वर्णनमुपलभ्यते । परन्तु कथं नालिकास्त्रं निर्मातव्यं? कानि च तत्र साधनानि ? एतत् किमपि न तत्र चर्चितमस्ति । अस्मिन् विषये शुक्रनीतिसारे किञ्चिद् विस्तरेणैव प्रतिपादितम् । अत्र न केवलं नालिकास्त्रस्य निर्माणपद्धतिः अपितु तत्र प्रयुक्तस्य अग्निचूर्णस्य निर्माणविधिरपि प्रदर्शितः । नालिकास्त्रेण प्रवृत्तं युद्धं शत्रुणां कृते महाविध्वंसकारकं भवतीति शुक्रनीतिसारे प्रतिपादितमस्ति । यथा
नालाग्निचूर्णसंयोगाल्लक्ष्ये गोलनिपातनम् । नालीकास्त्रेण तद्युद्धं महाह्रासकरं रिपोः ।। (8)
युद्धे नालिकास्त्राणां प्रयोगः पदातिभिः सैनिकैः एव करणीयः इति शुक्रनीतिसारस्य मतम् । (9) मान्त्रिकास्त्राणामभावे अन्यैः शस्त्रैः सह विजयाभिलाषिणा नृपतिना नालिकास्त्रस्य प्रयोगः करणीयः । (10) नालिकास्त्रस्य प्रयोगविधिविषये एवम् उच्यते यत् सर्वादौ नालिकास्त्रं परिष्कृत्य तस्यान्तः अग्निचूर्णकं (gunpowder) पूरणीयम् । एकेन दण्डेन तत् चूर्णकं दृढतया नालमूले निवेशनीयम् । तदनन्तरं तस्यान्तः गोलिका (bullet) दातव्या । ततश्च नालिकास्त्रस्य पार्श्वस्थछिद्रे पुनः अग्निचूर्णकं पूरयित्वा तत्र अग्निसंयोगः क्रियते । ततः गोलिका लक्ष्ये पात्यते । एवमस्ति शुक्रनीतिसारस्य नालिकास्त्रप्रयोगविधिवर्णनम् । (11)
बृहत्क्षुद्रविभेदतः नालिकास्त्रं द्विविधं भवतीति शुक्रनीतिसारे स्पष्टरूपेण प्रतिपादितम् । (12) आधुनिकयुगस्य canon तात्कालिकबृहन्नालिकास्त्रसदृशं स्यादिति अनुमीयते । क्षुद्रनालिकास्त्रं आधुनिकानां gun भवितुमर्हति ।
लघुनालिकस्य स्वरूपं विवृण्वन् शुक्रनीतिसारः कथयति यत् लघुनालिकस्य दैर्घ्यं पञ्चवितस्तिकं (two cubits) (13) भवति । अस्त्रमिदं मूलतः अग्रपर्यन्तं तिर्यक्छिद्रयुक्तं भवति । अस्त्रस्यास्य मूले (at the origin) अग्रे (at muzzle) च लक्ष्यभेदिसहायकतिलबिन्दोः (sharp point) संयोगः क्रियते । अस्य मूले ग्रावचूर्णं (gunpowder) भरितं तिष्ठति । ग्रावचूर्णमिदं यन्त्राघातेन अग्निमुप्तादयितुं शक्नोति । अस्त्रस्यास्य मूलभागस्य अङ्गोपाङ्गं काष्ठतिर्मितं भवति येन सुदृढतया एतत् ग्रहितुं शक्यते । मूलतः अग्रपर्यन्तं यच्छिद्रं बिलं वा भवति तत् मध्यमाङ्गुलपरिमाणं भवति अर्थात् बिलेऽस्मिन् मध्यमाङ्गुलं सुखेन प्रवेशयितुं यथा शक्यते तथा भवति । बिलेऽस्मिन् अग्निचूर्णं भरितं भवति । एतत् सर्वदा दृढशलाका rod)संयुक्तं भवति । एतादृशमस्त्रं लघुनालिकसंज्ञकं भवति यस्य प्रयोगः पदातयः आश्विकाः च कर्तुमर्हन्ति । (14) नालिकास्त्रस्य त्वक्सारं, बिलान्तरं यथा यथा स्थूलं भवति, दैर्घ्य च अधिकं भवति, गोलं च बृहद् भवति अस्त्रमिदं तथा तथा दूरभेदि भवति। (15) बृहन्नालिकास्त्रस्य मूलभागे कील (post or wedge) सदृशं किमपि भवति यस्य भ्रमणेन लक्ष्यानुरूपं गोलं क्षेप्तुं शक्यते । बृहन्नालिकस्य मूलभागः बुध्नश्च (handle) काष्ठनिर्मितः न भवति अपितु लोहादिधातुनिर्मितः दृढश्च भवति । अस्त्रमिदं शकटाद्यैः प्रवाह्यते । अस्य सम्यक् प्रयोगेण विजयः सुनिश्चितः भवति । (16) नालिकास्त्रस्य शरीरं पूर्णतया लोहमयं भवेत् अथवा अन्य-धातुजमपि भवितुमर्हति । एषु प्रयुक्तः गोलः लोहमयः भवति यस्यान्तः गर्भे वा क्षुद्रगुटिकादयः भवन्ति । अथवा कदापि केवलं लोहमयः भवति । लघुनालिकास्त्रस्य गोल: सीसानिर्मितः अन्यधातुनिर्मितो वा भवितुमर्हति । (17)
नालिकास्त्रेषु व्यवहृतम् अग्निचूर्णं (gun powder) कथं निर्मातुं शक्यते तस्यापि सुस्पष्टं वर्णनं शुक्रनीतिसारे वर्तते । अत्रेदमुक्तं यत् — सुवर्चिनामकात् लवणात् (a kind of salt like alums or saltpetre or potassium nitrate ) पञ्चपलानि । गन्धकात् (sulphur) एकं पलम् । अन्तर्धूमप्रक्रियया (18)समुत्पादितस्य अर्कवृक्षस्य स्नुहिवृक्षस्य च अङ्गारकात् एकं पलम् आदाय प्रथमतः एतत् सर्वं चूर्ण्यते । चूर्णनानन्तरम् अर्कवृक्षस्य, स्नुहिवृक्षस्य, रसोनस्य च रसैः चूर्णमिदं सम्मिल्यते । ततः आतपे शोष्यते । शर्करावत् पुनः चूर्ण्यते । एतदेव अग्निचूर्णं कथ्यते । कदाचित् सुवर्चिलवणात् चतुष्पलानि षट् पलानि वापि प्रयोक्तुं शक्यते । (19) एतदतिरिच्य अग्निचूर्णनिर्माणस्य अन्येऽपि प्रकारभेदाः सन्ति यैः नानाप्रकारकं, नानावर्णयुक्तम् अग्निचूर्णं निर्मातुं शक्यते । यथा — अङ्गार (charcaol), गन्धक (sulphor), सुवर्चिलवण (saltpetre), शिला (stone), हरिताल (realgar or natural arsenic tri-sulphide or a kind of yellow mineral), सीसमल(dirt of lead), हिङ्गुल (cinnabar), कान्तिसारलोह (ironfillings) कर्पूर (camphor) जतु (shell lac), नीली (blue vitriol), सरलवृक्षस्य निर्यासः (resin of pine tree) एतत् सर्वं समन्यूनाधिकैरंशैः सम्मिल्य अनेकशः अग्निचूर्णानि निर्मीयन्ते । (20)
एवम् अनेनैव प्रकारेण शुक्रनीतिसारे नालिकास्त्रस्य स्वरूपं, प्रयोगविधिः, अग्निचूर्णस्य निर्माणप्रक्रिया, गोलस्वरूपम् इत्यादयो विषया वर्णिताः ।
उपसंहारः — प्राचीनभारते कस्मिन् युद्धे कदा च प्रथमतः नालिकास्त्रस्य प्रयोगः अभवत् इति वक्तुं न शक्यते । न तत्र किमपि बलिष्ठं शास्त्रीयप्रमाणं वर्तते न वा अन्यत् किमपि प्रमाणम् । केवलं वसिष्ठकृतधनुर्वेदसंहिताया, शुक्रचार्यस्य शुक्रनीतिसारे च यत् किमपि अस्मिन् विषये वर्णितं तदाधारेणैव प्राचीनभारते नालिकास्त्राणां निर्माणं, सुप्रयोगश्च भवति स्म इति ज्ञायते । केचन कथयन्ति प्रायः पञ्चदशशतके एव बङ्गदेशे नालिकास्त्रस्य प्रयोगः प्रथमतया अभवत् । परन्तु अस्मिन् विषयेऽपि तादृशं बलिष्ठप्रमाणं न विद्यते । एतदपि कथ्यते यत् सप्तचत्वारिंशद् अधिकद्वादशशततमे (1247) वर्षे फ्रायर बेकन् नामक युरोपीयरासायनिकः प्रथमतः अग्निचूर्णस्य आविष्कारम् अकरोत् । ततः परं पञ्चदशशतके (1498 A.D) यदा पर्तुगीज्जनाः भारताक्रमणमकुर्वन् तदा प्रथमतया तैरेव नालिकास्त्राणां प्रयोगः कृतः आसीत् । तदनन्तरमेव भारते अस्य प्रयोगः अभवत् । परन्तु सर्वथा भ्रान्तेयम् अवधारणा । अस्मिन् विषये केषाञ्चित् पाश्चात्यानां सम्मतयः अत्र प्रतिपाद्यन्ते -
१. नेपोलियन बोनापार्ट स्वरचिते Aid Memory to Military Sciences नामके ग्रन्थे अलिखत् — “ भारतवर्षे चीन्देशे च अग्निचूर्णं पूर्णतया विदितम् आसीत् । युद्धे एतस्य प्रयोगः तैः खीष्टजन्मतः बहुशतकेभ्यः पूर्वं कृतः आसीत् ।
२. ग्रीनर नामकः कश्चित् पाश्चात्यः ऐतिहासिकः स्वरचिते gunnery in 1857 नामके ग्रन्थे लिखति’अतिप्राचीनकालात् भारतीयाः अग्निचूर्णं, तस्य धटकद्रव्याणि च जानन्त्येव ।”
३. मद्रास् प्रेसिडेन्सि महाविद्यालयस्य प्राध्यापकः गष्टाव आपर्ट अपि स्वरचितस्य Weapons, Army-organisations and Political Maxims of the Ancient Hindus इति नामकपुस्तकस्य — India-the Home of Gun-powder and firearms नामके अध्याये एतत् उल्लिखति यत् कल्पनातीतप्राचीनकालादेव भारतीयाः चीन्देशीयाः च नालिकास्त्रेषु प्रयुक्तस्य अग्निचूर्णस्य विषये जानन्ति ।
अतः सङग्रहेण एतत् कथयितुं शक्यते यत् प्राचीनभारते नालिकास्त्राणां सुप्रयोगः भवति स्म । अग्निचूर्णनिर्माणे प्राचीनभारतीयाः दक्षाः आसन् । परन्तु कदा कुत्र कथं च एतत्सर्वं भवति स्म अस्मिन् विषये सप्रमाणं किमपि वक्तुं न शक्यते ।
Notes:
1. अस्यते क्षिप्यते यत्तु मन्त्रयन्त्राग्निभिश्च तत् ।
अस्त्रं तदन्यतः शस्त्रमसिकुन्तादिकं च यत् ।। शुक्रनीति ४.७.१८१
2. धनुर्वेदसंहिता, १.४.
3. शुक्रनीतिसारे (४.७.१८१ ) “अस्त्रं द्विविधं ज्ञेयं नालिकं मान्त्रिकं तथा” इति वाक्ये ‘नालिकं स्थाने यान्त्रिकमिति स्यात् चेत् साधु भवेदिति मे मतिः । यतोहि नालिकं भवति एकप्रकारकं यन्त्रमुक्तम् अस्त्रम् न तु यान्त्रिकमित्यस्य पर्यायवाचकम् । *
4. नालीका लधवो बाणा नलयन्त्रेण नोदिताः । अत्युच्चदूरपातेषु दुर्गयुद्धेषु ते मताः । धनुर्वेदसंहिता, १.७४
5. अग्निचूर्णस्य (gunpowder) अर्थे अत्र रञ्जकशब्दस्य प्रयोगः ।
6. ‘सिंहासनस्य रक्षार्थं शतघ्नं स्थापयेत् गढे । रञ्जकबहुलं तत्र स्थाप्यं वटयो धीमता ।। धनुर्वेदयंहिता, १.७५
7. धनुर्वेदसंहिताया युद्धानि सप्तधा भवितुमर्हन्ति इति उक्तम् । यथा — धनुश्चक्रं च, कुन्तं च, खड्गं च, छुरिका, गदा । सप्तमं बाहुयुद्धं स्यादेवं युद्धानि सप्तधा ।। धनुर्वेदसंहिता, १.९ 6 7
अत्र सर्वप्रकारकाणां क्षेपणास्त्राणां प्रयोगः धनुर्युद्धान्तर्गतः ।
8. शुक्रनीतिसारः, ४.७.३२१
9. ‘नालीकास्त्रेण खड्गाद्यैः सैनिकैः पातयेदरीन् । कुन्तेन सादी बाणेन रथगो गजगोऽपि च ।। शुक्रनीतिसारः, ४. ७. १८२
10. यदा तु मान्त्रिकं नास्ति नालिकं तत्र धारयेत् । सह शस्त्रेण नृपतिर्विजयार्थं तु सर्वदा ।। शुक्रनीतिसारः, ४.७.१८3
11. नालास्त्रं शोधयेदादौ दद्यात्तत्राग्निचूर्णकम् । निवेशयेत्तद्दण्डेन नालमूले यथा दृढम् ।। ततः सुगोलकं दद्यात् ततः कर्णेऽग्निचूर्णकम् । कर्णचूर्णाग्निदानेन गोलं लक्ष्ये निपातयेत् ।। शुक्रनीतिसारः, ४. ७. १९८ -१९९
12. ‘नालिकं द्विविधं ज्ञेयं बृहत्क्षुद्रविभेदतः, शुक्रनीतिसारः, ४. ७. १८४
13. द्वादशाङ्गुलैः एकं वितस्तिकं भवति । पञ्चवितस्तिकं नाम षष्टयङ्गुलात्मकं दैर्घ्यम् । एकं cubit त्रिंशदङ्गुलात्मकं भवति । ‘
14. — -तिर्यगुर्ध्वच्छिद्रमूलं नालं पञ्चवितस्तिकम् । मूलाग्रयोर्लक्ष्यभेदितिलविन्दुयुतं सदा । यन्त्राधाताग्निकृद् ग्रावचूर्णधृक्कर्णमूलकम् ।। सुकाष्ठोपाङ्गबुधं च मध्याङ्गुलविलान्तरम् । स्वान्तेऽग्निचूर्णसन्धातृ शलकासंयुतं दृढम् ।। लघुनालिकमप्येतत् प्राधार्य पत्तिसादिभिः ।। शुक्रनीतिसारः, ४. ७. १८४ — १८६
15. यथा यथा तु त्वक्सारं यथा स्थूलं विलान्तरम् । यथा दीर्घ बृहद्गोलं दूरभेदि तथा तथा ।। शुक्रनीतिसारः, ४. ७. १८७ ।
16. ‘मूलकालभ्रमाल्लक्ष्यसमसन्धानभाजि यत् । बृहन्नालिकसंज्ञं तत्काष्ठबुध्नविवर्जितम् । प्रवाह्यं शकटाद्यैस्तु संयुक्तं विजयप्रदम् ।। शुक्रनीतिसारः, ४. ७. १८८ 15
17. गोलो लोहमदो गर्भगुटिकः केवलोऽपि वा । सीसस्य लघुनालार्थे ह्यन्यधातुभवोऽपि वा ।। शुक्रनीतिसारः, ४. १. १९२
18. ‘एकस्मिन् गर्ने काष्ठादिकं पातयित्वा अग्निदाहः क्रियते ततश्च गर्तस्य पिधानं क्रियते येन धूमः बहिर्नागमिष्यति। एषा एव अन्तधूमप्रक्रिया ।
19. ‘सुवर्चिलवणात् पञ्च पलानि गन्धकात् पलम् । अन्तर्धूमविक्कार्कस्नुह्याद्यङ्गारतः पलम् ॥ शुद्धात् सङग्राह्य सञ्चूर्ण्य सम्मील्य प्रपुटेद्रसैः । पिष्ट्वा शर्करवच्चैतदग्निचूर्णं भवेत् खलु ।। सुवर्चिलवणाद् भागा षड् वा चत्वार एव वा । नालास्त्रार्थाग्निचूर्णे तु गन्धाङ्गारौ तु पूर्ववत् ।। शुक्रनीतिसार, ४.७. १८९-१९१
20. ‘अङ्गारस्यैव गन्धस्य सुवर्चिलवणस्य च । शिलाया हरितालस्य तथा सीसमलस्य च ।। हिङ्गुलस्य तथा कान्तरजसः कर्पूरस्य च । जतोर्नील्याश्च सरलनिर्यासस्य तथैव च । समन्यूनाधिकैरंशैरग्निचूर्णानयनेकशः । कल्पयन्ति … ।। शुक्रनीतिसार, ४.७. १९४-१९६