वनस्पतीनां सचेतनत्वम्

Sampadananda Mishra
4 min readJan 1, 2022

(This is an article in Sanskrit on the Plant Consciousness — Ancient Indian Perspective.This was presented by me in one of the seminars in Delhi and was also published in Lokasamskritam, a Sanskrit magazine from Sri Aurobindo Ashram, Pondicherry)​​

वनस्पतीनां विषये श्रीजगदीशचन्द्रबसुना एतत् प्रमाणीकृतं यत् वृक्षलतादिषु अपि चेतना विद्यते । यथा सचेतनाः प्राणिनः सुखदुःखादीनाम् अनुभवं कर्तुं शक्नुवन्ति तथैव वृक्षादीनामपि सुखदुःखानुभवः भवति । स्थूलदृशः वयम् एतषां भावावेगादीन् ज्ञातुं द्रष्टुं वा न शक्नुमः। किन्तु आधुनिकवैज्ञानिकैः निर्मितयन्त्रादिभिः एतत् स्पष्टरूपेण ज्ञातुं शक्यते । स्वयं जगदीशचन्द्रबसुनाऽपि स्वनिर्मि​तैः Magnetic Crescograph, Resonate Recorder, प्रभृतीभिः ​यन्त्रैः ​ एतत् दर्शितं यत् स्वल्पाघातेनापि वृक्षेषु कम्पनं जायते । एतस्मात् स्पष्टं भवति यत् वृक्षादयः न केवलं सचेतनाः अपि तु ते तत्तद् विषयग्रहणक्षमाः ये विषया मानवीयोपलब्धेः सुदूरवर्तिनः।

आधुनिकयुगस्य एतदाविष्कारस्य दर्शनं मनुस्मृतौ स्पष्टतया प्रतिपादितमस्ति । मनुः कथयति यद्यपि वृक्षादिषु बाह्यतः चेतना न परिलक्षते तथापि ते अन्तश्चैतन्ययुक्ताः सन्ति । तदर्थं ते सुखदुःखादीनाम् अनुभवमपि कर्तुं शक्नुवन्ति ।

तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।।

(​मनुस्मृतिः, १.४७​)​

अस्य श्लोकस्य व्याख्यां कुर्वन् मेधातिथिः कथयति वृक्षादयः स्वापमदमूर्छावस्थागताः मनुष्या इव भवन्ति । तेषां चैतन्यं निगूढतया तेषु सर्वत्र व्याप्तं वर्तते । योगवासिष्ठेऽपि एतत् प्रतिपादितं यत् यथा बीजेषु पुष्पादयः सन्ति तथैव स्थावराणां वासना तेषां अन्तः वर्तते ।

यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा । ​​तथान्तःसंस्थिता साधो स्थावरेषु स्ववासना ।

​(​योगवासिष्ठ, ६.१.१०.१९​)​

चित्-​शक्तिरेव वासनारूपेण स्थावरादिषु वस्तुषु स्थिता ।

चित्-​शक्तिर्वासनाबीजरूपिणी स्वापधर्मिणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ।।

​(​योगवासिष्ठ, ६.१.१०.२३​)​

केचन इन्द्रिययुक्तानां सचेतनत्वं निरिन्द्रियाणाम् अचेतनत्वं च अङ्गीकुर्वन्ति । एतेषां मतेन बृक्षादयः अपि इन्द्रिययुक्ताः भवन्ति । चरकसंहितायाः ‘सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियम् अचेतनम्’ ​(​१.१.४८​)​ इति वचनस्य व्याख्यां कुर्वन् चक्रपाणिदत्तः स्वकीयायुर्वेददीपिकायां कथयति — “अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्वं बोद्धव्यम् । तथा हि सूर्यभक्तायाः यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणाद् दृग् अनुभूयते । तथा लवली मेघस्तनितश्रवणात् फलवती भवति बीजपूरकमपि शृगालादिवसागन्धेनातीव​ ​फलवद् भवति । चूतानां च मत्स्यवसासेकात् फलाढ्यतया रसनमनुमीयते। अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तवकितस्य स्पर्शनमनुमानम् ।”

बृहदारण्यकोपनिषदि मानवशरीरस्य अङ्गप्रत्यङ्गैः सह वृक्षादीनामङ्गप्रत्यङ्गानां साम्यं प्रदर्शितम् । अत्र एतत् प्रतिपादितं यत् पुरुषः वनस्पतितुल्यः एव ।

यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।

तस्य लामानि पर्णानि त्वगस्योप्ताटिका बहिः ​​।।​

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उप्तटः ।

तस्मात्तदातृण्णात् पैति रसो​ ​वृक्षादिवाहनात् ​​।।

मांसान्यस्य शकराणि किनाटं स्नाव तत् स्थिरम् ।

अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ।।

​(​बृहदारण्यकोपनिषद्, ३.९​.२८ १-३​)​

अत्र न केवलं वृक्षाणाम् अङ्गप्रत्यङ्गानां पुरुषस्याङ्गप्रत्यङ्गानां च साम्यं प्रदर्शितम् अपि तु वनस्पतिषु सञ्चारितप्राणतत्त्वस्य सूचनापि प्रदत्ता ।

महाभारते शान्तिपर्वणि भरद्वाज-भृगुसम्वादे एतद् उक्तं यत् समस्तमिदं स्थावरजङ्गमं पञ्चभिर्महाभूतैः युक्तम् । श्रोत्रं, घ्राणं, रसः, स्पर्शः, दृष्टिश्चैतानि इन्द्रियसंज्ञितानि । एतैः इन्द्रियैः ​सर्वैः स्थावरजङ्गमाः युक्ताः । यदि एवं तर्हि स्थावराणां वृक्षाणां शरीरे तु पञ्च धातवः न दृश्यन्ते । न वा ते श्रोतुं, द्रष्टुं च शक्नुवन्ति । न च ते ​स्पर्शं विजानान्ति, न वा गन्धरसवेदिनः। तर्हि कथं ते पाञ्चभौतिकाः? इति आसीत् भरद्वाजस्य प्रश्नः । अस्योत्तरं ददद् भृगुरवोचत् -

घनानामापि वृक्षाणामाकाशोस्ति न संशयः ।

तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ।।

उष्मतो म्लायते पण त्वक् फलं पुष्पमेव च ।

म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ।।

वाय्वग्न्यिशनिनि?षैः फलं पुष्प विशीर्यते ।

श्रोत्रेण गृह्यते शब्द​स्तस्माच्छृण्वन्ति पादपाः ।

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।

न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः ।।

पुण्यापुण्यैस्तथा गन्धैधूपैश्च विविधैरपि ।

अरोगाः पुष्पितास्सन्ति तस्माजिघ्रन्ति पादपाः ।।

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् ।

व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ।।

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।

तथा पवनसंयुक्तः पादैः पिबति पादपः ।।

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।

जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ।।

​(​महाभारतम्, शान्तिपर्व, १८४-१०-१७​)​

अत्रापि वृक्षाणा सचेतनत्वमेव उद्घोषितम् । वनस्पतीनां सचेतनता वशाद् एव तेषां सुखदुःखानुभवः जायते । तेषां व्याधिप्रपीडितत्वे आरोग्यलाभे च सचेतनत्वमेव कारणम् ।

वृक्षादीनां रोगनिरूपणं, रोगाणां प्रतिकारः इत्यादयो विषयाः साधारणतया वृक्षायुर्वेदग्रन्थेषु एव उपलम्यन्ते । पराशरमुनिकृतवृक्षायुर्वेदः, सुरपालकृतवृक्षायुर्वेदः, वराहमिहिरस्य बृहत्संहिता (पञ्चपञ्चाशदध्यायः), पराशरमुनिकृतकृषिपराशरः, चक्रपाणिमिश्रस्य विश्ववलभः, अन्यच्च उपवनविनोदः, अभिलषितार्थचिन्तामणिः, इत्येतेषु ग्रन्थेषु वृक्षाणां रोगप्रतिकारादिबिषयाः वर्णिताः सन्ति ।

आध्यात्मिकदृष्ट्या विचार्यते चेत् समग्रमिदं जगत् चिन्मयम् । चरेषु अचरेषु च सर्ववस्तुषु चिदेव विराजते । प्रायः जनाः चिन्तयन्ति यत् चिन्तनशीलता एव प्राणीनां सचेतनत्वे कारणम् । यतो हि वृक्षादयः चिन्तयितुं न शक्नुवन्ति ततः ते न सचेतनाः । परन्तु एषा भ्रन्तिरिति पाण्डिचेरीस्थ-श्रीअरविन्दाश्रमस्य श्रीमाता कथयति ।

नानाविधानां पुष्पाणां विषये कथयन्ती श्रीमाता पुनः एतदपि प्रतिपादयति यत् यदि वयं पुष्पाणां चेतनया युक्तो भूत्वा प्रशान्तमनसा स्थास्यामः तदा तेषाम् अन्तः प्रविश्य तानि किं प्रकाशयन्ति तदपि ज्ञातुं शक्नुमः । अनेन प्रकारेण स्वयं श्रीमाता प्रायः अष्टशताधिकानां पुष्पाणाम् आन्तरताप्त​​र्यं प्रदर्शयन्ती तेषां अभिधानानि अपि अकरोत् । यथा तुलसी इत्यस्य आन्तरताप्त​​र्यं भवति Devotion (भक्तिः), रजनीगन्धा इति पुष्पस्य नाम New Creation (नवसृष्टिः), स्थलपद्मस्य नाम Divine Grace (दैवीकृपा) । एतानि केवलं पुष्पाणाम् अपरनामानि न भवन्ति अपितु तेषां आन्तरताप्तर्यस्य प्रतीकभूतानि ।

सर्वेषु वस्तुषु या चेतना वर्तते सा अस्माकं मानसिकी आत्मचेतना न इति श्री अरविन्दः प्रतिपादयति । सकलवस्तुषु विद्यमाना चेतना भागवतचेतना एव । अस्माकं मानसिकी आत्मचेतना भागवतचेतनायाः रूपैकमात्रम् । एषा भागवतचेतनापेक्षया सीमिता, निम्नस्तरीया । यदा अस्माकम् आत्मजागरणं भविष्यति तदा एव अस्माकम् एष अनुभवः भविष्यति यत् वृक्षेषु, धातुषु, अणुषु, विद्युत्सु, भैतिकप्रकृतेः सकलेषु वस्तुषु सा एव भागवतचेतना परिव्याप्य स्थिता । (Sri Aurobindo, Synthesis of Yoga, P. 371)

एतस्मात् ज्ञायते यत् अस्मिन् चिन्मये जगति न किञ्चिद् अचैतन्यं विद्यते । यद्यपि बाह्यतः वनस्पतीनां स्वान्तःस्थचेतनायाः परिप्रकाशनं न भवति तथापि अन्ये सचेतनाः प्राणिनः इव ते सुखदुःखदीनाम् अनुभवं कर्तुं शक्नुवन्ति । तेषां सचेतनत्ववशादेव ते रोगग्रस्ताः भवन्ति, रोगात् मुक्ताः अपि भवन्ति ​​। स्पर्शानाम् अनुभवं कर्तुं शक्नुवन्ति । छिन्नेष्वपि पुनर्विरोहन्ति । शुद्धे वातावरणे हसन्तः विकसन्ति । अशुद्धे च म्लायन्ते । अत एवोच्यते, “अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।” ​वनस्पतीनां सचतेनस्वरूपं विज्ञाय तेषां समुचितपरिपालने तत्पराः भवामश्चेत् सकलोपकाराय ​। ​

।​​।​ॐ वनस्पतयः शान्तिः ​।​​।

--

--

Sampadananda Mishra

Author, speaker and researcher on subjects related to Sanskrit, Indian Culture, Spirituality, Yoga and Education. SahityaAkademi and President of India Awardee.